|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.170. अध्यायः 170
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण पाण्डवसेनायां रथातिरथसंख्यानम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text
भीष्ण उवाच। 5-170-0x(3877)(37731)
द्रौपदेया महाराज सर्वे पञ्च महारथाः ।
वैराटिरुत्तरश्चैव रथोदारो मतो मम ॥ 5-170-1(37732)
अभिमन्युर्महाबाहू रथयूथमयूथपः ।
समः पार्थेन समरे वासुदेवेन चारिहा ॥ 5-170-2(37733)
लघ्वस्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः ।
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ॥ 5-170-3(37734)
सात्यकिर्माधवः शूरो रथयूथपयूथपः।
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥ 5-170-4(37735)
उत्तमौजास्तथा राजन्रथोदारो मतो मम ।
युधामन्युश्च विक्रान्तो रथोदारो मतो मम ॥ 5-170-5(37736)
एतेषां बहुसाहस्रा रथा नागा हयास्तथा ।
योत्स्यन्ते ते तनूस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥ 5-170-6(37737)
पाण्डवैः सह राजेन्द्र तव सेनासु भारत।
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥ 5-170-7(37738)
अजेयौ समरे वृद्धौ विराटद्रुपदौ तथा।
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥ 5-170-8(37739)
वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ ।
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥ 5-170-9(37740)
संबन्धिकेन राजेन्द्र तौ तु वीर्यबलान्वयात् ।
आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ ॥ 5-170-10(37741)
कारणं प्राप्य तु नराः सर्व एव महाभुजाः ।
शूरा वा कातरा वापि भवन्ति कुरुपुङ्गव ॥ 5-170-11(37742)
एकायनगतावेतौ पार्थिवौ दृढधन्विनौ ।
प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारौ परन्तप ॥ 5-170-12(37743)
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ ।
संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ॥ 5-170-13(37744)
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत।
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ॥ ॥ 5-170-14(37745)
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-170-9 वीरगते वीरैरनुसृते ॥ 5-170-10 सितौ बद्धौ ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|